Mahakal Shani Mrityunjaya Stotra

Mahakal Shani Mrityunjaya Stotra PDF Free Download, महाकाल शनि मृत्युंजय स्तोत्र PDF Free Download.

Mahakal Shani Mrityunjaya Stotra PDF

Friends, We Are Providing You With The Download Link For The Mahakal Shani Mrityunjaya Stotra Pdf / Mahakal Shani Mrityunjaya Stotra Pdf In Hindi Via This Page. A Highly Mysterious And Remarkable Stotra Is The Mahakal Shani Mrityunjay Stotra.

Such A Psalm As This One Also Has The Power To Prevent Early Death. This Hymn Has A Lot Of Impact. Since This Stotra Is Entirely Vedic And Siddha, It Is Also Extremely Vital To Take Attention Of Certain Unique Aspects When Reciting It. Consequently, The Pronunciation Shouldn’t Have Any Impurities Of Any Form. Your Life Will Be Changed By The Lyrics Included In The Shani Mrityunjay Stotra Pdf.

During Fasting On Saturdays, Devotees Are Required To Listen To Shani Pradosh Vrat Katha And Follow The Shaniwar Vrat Pooja Vidhi.

Moreover, Chanting The Shani Kavach And Shani Ashtottara Shatnam Stotras Is Also Advantageous. The Benefits Of Shani Dev Are Always With Those Who Thank Him With A Pure Heart.

शनि मृत्युंजय स्तोत्र  PDF

अथ शनैश्चरमृत्युञ्जयस्तोत्रम् ।
विनियोगः-
ओं अस्य श्री महाकाल शनि मृत्युञ्जयस्तोत्रमन्त्रस्य पिप्लाद
ऋषिरनुष्टुप्छन्दो महाकाल शनिर्देवता शं बीजं मायसी शक्तिः काल
पुरुषायेति कीलकं मम अकाल अपमृत्यु निवारणार्थे पाठे विनियोगः ।
श्री गणेशाय नमः ।
ओं महाकाल शनि मृत्युञ्जायाय नमः ।
नीलाद्रीशोभाञ्चितदिव्यमूर्तिः खड्गो त्रिदण्डी शरचापहस्तः ।
शम्भुर्महाकालशनिः पुरारिर्जयत्यशेषासुरनाशकारी ॥ १
मेरुपृष्ठे समासीनं सामरस्ये स्थितं शिवम् ।
प्रणम्य शिरसा गौरी पृच्छतिस्म जगद्धितम् ॥ २॥
पार्वत्युवाच –
भगवन् ! देवदेवेश ! भक्तानुग्रहकारक ! ।
अल्पमृत्युविनाशाय यत्त्वया पूर्व सूचितम् ॥ ३॥
तदेवत्वं महाबाहो ! लोकानां हितकारकम् ।
तव मूर्ति प्रभेदस्य महाकालस्य साम्प्रतम् ॥ ४॥
शनेर्मृत्युञ्जयस्तोत्रं ब्रूहि मे नेत्रजन्मनः ।
अकाल मृत्युहरणमपमृत्यु निवारणम् ॥ ५॥
शनिमन्त्रप्रभेदा ये तैर्युक्तं यत्स्तवं शुभम् ।
प्रतिनाम चथुर्यन्तं नमोन्तं मनुनायुतम् ॥ ६॥
श्रीशङ्कर उवाच –
नित्ये प्रियतमे गौरि सर्वलोक-हितेरते ।
गुह्याद्गुह्यतमं दिव्यं सर्वलोकोपकारकम् ॥ ७॥
शनिमृत्युञ्जयस्तोत्रं प्रवक्ष्यामि तवऽधुना ।
सर्वमङ्गलमाङ्गल्यं सर्वशत्रु विमर्दनम् ॥ ८॥
सर्वरोगप्रशमनं सर्वापद्विनिवारणम् ।
शरीरारोग्यकरणमायुर्वृद्धिकरं नृणाम् ॥ ९॥
यदि भक्तासि मे गौरी गोपनीयं प्रयत्नतः ।
गोपितं सर्वतन्त्रेषु तच्छ्रणुष्व महेश्वरी ! ॥ १०॥
ऋषिन्यासं करन्यासं देहन्यासं समाचरेत् ।
महोग्रं मूर्घ्नि विन्यस्य मुखे वैवस्वतं न्यसेत् ॥ ११॥
गले तु विन्यसेन्मन्दं बाह्वोर्महाग्रहं न्यसेत् ।
हृदि न्यसेन्महाकालं गुह्ये कृशतनुं न्यसेत् ॥ १२॥
जान्वोम्तूडुचरं न्यस्य पादयोस्तु शनैश्चरम् ।
एवं न्यासविधि कृत्वा पश्चात् कालात्मनः शनेः ॥ १३॥
न्यासं ध्यानं प्रवक्ष्यामि तनौ श्यार्वा पठेन्नरः ।
कल्पादियुगभेदांश्च कराङ्गन्यासरुपिणः ॥ १४॥
कालात्मनो न्यसेद् गात्रे मृत्युञ्जय ! नमोऽस्तु ते ।
मन्वन्तराणि सर्वाणि महाकालस्वरुपिणः ॥ १५॥
भावयेत्प्रति प्रत्यङ्गे महाकालाय ते नमः ।
भावयेत्प्रभवाद्यब्दान् शीर्षे कालजिते नमः ॥ १६॥
नमस्ते नित्यसेव्याय विन्यसेदयने भ्रुवोः ।
सौरये च नमस्तेऽतु गण्डयोर्विन्यसेदृतून् ॥ १७॥
श्रावणं भावयेदक्ष्णोर्नमः कृष्णनिभाय च ।
महोग्राय नमो भार्दं तथा श्रवणयोर्न्यसेत् ॥ १८॥
नमो वै दुर्निरीक्ष्याय चाश्विनं विन्यसेन्मुखे ।
नमो नीलमयूखाय ग्रीवायां कार्तिकं न्यसेत् ॥ १९॥
मार्गशीर्ष न्यसेद्-बाह्वोर्महारौद्राय ते नमः ।
ऊर्द्वलोक-निवासाय पौषं तु हृदये न्यसेत् ॥ २०॥
नमः कालप्रबोधाय माघं वै चोदरेन्यसेत् ।
मन्दगाय नमो मेढ्रे न्यसेर्द्वफाल्गुनं तथा ॥ २१॥
ऊर्वोर्न्यसेच्चैत्रमासं नमः शिवोस्भवाय च ।
वैशाखं विन्यसेज्जान्वोर्नमः संवर्त्तकाय च ॥ २२॥
जङ्घयोर्भावयेज्ज्येष्ठं भैरवाय नमस्तथा ।
आषाढ़ं पाद्योश्चैव शनये च नमस्तथा ॥ २३॥
कृष्णपक्षं च क्रूराय नमः आपादमस्तके ।
न्यसेदाशीर्षपादान्ते शुक्लपक्षं ग्रहाय च ॥ २४॥
नयसेन्मूलं पादयोश्च ग्रहाय शनये नमः ।
नमः सर्वजिते चैव तोयं सर्वाङ्गुलौ न्यसेत् ॥ २५॥
न्यसेद्-गुल्फ-द्वये विश्वं नमः शुष्कतराय च ।
विष्णुभं भावयेज्जङ्घोभये शिष्टतमाय ते ॥ २६॥
जानुद्वये धनिष्ठां च न्यसेत् कृष्णरुचे नमः ।
ऊरुद्वये वारुर्णान्न्यसेत्कालभृते नमः ॥ २७॥
पूर्वभाद्रं न्यसेन्मेढ्रे जटाजूटधराय च ।
पृष्ठउत्तरभाद्रं च करालाय नमस्तथा ॥ २८॥
रेवतीं च न्यसेन्नाभो नमो मन्दचराय च ।
गर्भदेशे न्यसेद्दस्त्रं नमः श्यामतराय च ॥ २९॥
नमो भोगिस्रजे नित्यं यमं स्तनयुगे न्यसेत् ।
न्येसत्कृत्तिकां हृदये नमस्तैलप्रियाय च ॥ ३०॥
रोहिणीं भावयेद्धस्ते नमस्ते खड्गधारीणे ।
मृगं न्येसतद्वाम हस्ते त्रिदण्डोल्लसिताय च ॥ ३१॥
दक्षोर्द्ध्व भावयेद्रौद्रं नमो वै बाणधारिणे ।
पुनर्वसुमूर्द्ध्व नमो वै चापधारिणे ॥ ३२॥
तिष्यं न्यसेद्दक्षबाहौ नमस्ते हर मन्यवे ।
सार्पं न्यसेद्वामबाहौ चोग्रचापाय ते नमः ॥ ३३॥
मघां विभावयेत्कण्ठे नमस्ते भस्मधारिणे ।
मुखे न्यसेद्-भगर्क्ष च नमः क्रूरग्रहाय च ॥ ३४॥
भावयेद्दक्षनासायामर्यमाणश्व योगिने ।
भावयेद्वामनासायां हस्तर्क्षं धारिणे नमः ॥ ३५॥
त्वाष्ट्रं न्यसेद्दक्षकर्णे कृसरान्न प्रियाय ते ।
स्वातीं न्येसद्वामकर्णे नमो बृह्ममयाय ते ॥ ३६॥
विशाखां च दक्षनेत्रे नमस्ते ज्ञानदृष्टये ।
मैत्रं न्यसेद्वामनेत्रे नमोऽन्धलोचनाय ते ॥ ३७॥
शाक्रं न्यसेच्च शिरसि नमः संवर्तकाय च ।
विष्कुम्भं भावयेच्छीर्षेसन्धौ कालाय ते नमः ॥ ३८॥
प्रीतियोगं भ्रुवोः सन्धौ महामन्दं ! नमोऽस्तु ते ।
नेत्रयोः सन्धावायुष्मद्योगं भीष्माय ते नमः ॥ ३९॥
सौभाग्यं भावयेन्नासासन्धौ फलाशनाय च ।
शोभनं भावयेत्कर्णे सन्धौ पिण्यात्मने नमः ॥ ४०॥
नमः कृष्णयातिगण्डं हनुसन्धौ विभावयेत् ।
नमो निर्मांसदेहाय सुकर्माणं शिरोधरे ॥ ४१॥
धृतिं न्यसेद्दक्षवाहौ पृष्ठे छायासुताय च ।
तन्मूलसन्धौ शूलं च न्यसेदुग्राय ते नमः ॥ ४२॥
तत्कूर्परे न्यसेदगण्डे नित्यानन्दाय ते नमः ।
वृद्धिं तन्मणिबन्धे च कालज्ञाय नमो न्यसेत् ॥ ४३॥
ध्रुवं तद्ङ्गुली-मूलसन्धौ कृष्णाय ते नमः ।
व्याघातं भावयेद्वामबाहुपृष्ठे कृशाय च ॥ ४४॥
हर्षणं तन्मूलसन्धौ भुतसन्तापिने नमः ।
तत्कूर्परे न्यसेद्वज्रं सानन्दाय नमोऽस्तु ते ॥ ४५॥
सिद्धिं तन्मणिबन्धे च न्यसेत् कालाग्नये नमः ।
व्यतीपातं कराग्रेषु न्यसेत्कालकृते नमः ॥ ४६॥
वरीयांसं दक्षपार्श्वसन्धौ कालात्मने नमः ।
परिघं भावयेद्वामपार्श्वसन्धौ नमोऽस्तु ते ॥ ४७॥
न्यसेद्दक्षोरुसन्धौ च शिवं वै कालसाक्षिणे ।
तज्जानौ भावयेत्सिद्धिं महादेहाय ते नमः ॥ ४८॥
साध्यं न्यसेच्च तद्-गुल्फसन्धौ घोराय ते नमः ।
न्यसेत्तदङ्गुलीसन्धौ शुभं रौद्राय ते नमः ॥ ४९॥
न्यसेद्वामारुसन्धौ च शुक्लकालविदे नमः ।
ब्रह्मयोगं च तज्जानो न्यसेत्सद्योगिने नमः ॥ ५०॥
ऐन्द्रं तद्-गुल्फसन्धौ च योगाऽधीशाय ते नमः ।
न्यसेत्तदङ्गुलीसन्धौ नमो भव्याय वैधृतिम् ॥ ५१॥ (यहाँ हमने शनि मृत्युंजय स्तोत्र के कुछ श्लोक दिए हैं आप सपूर्ण महाकाल शनि मृत्युंजय स्तोत्र पढ़ने के लिए नीचे दिए गए डाउनलोड लिंक से शनि मृत्युंजय स्तोत्र पीडीऍफ़ प्राप्त कर सकते हैं। )

PDF Information :



  • PDF Name:   Mahakal-Shani-Mrityunjaya-Stotra
    File Size :   ERROR
    PDF View :   0 Total
    Downloads :  Free Downloads
     Details :  Free Download Mahakal-Shani-Mrityunjaya-Stotra to Personalize Your Phone.
     File Info:  This Page  PDF Free Download, View, Read Online And Download / Print This File File 
Love0

Leave a Reply

Your email address will not be published. Required fields are marked *